Friday 19 May 2023

पश्यन् शृण्वन् स्पृशन् जिघ्रन्

अष्टावक्र गीता

अध्याय १७

श्लोक १२

पश्यन् शृण्वन् स्पृशन् जिघ्रन्नश्नन् गृह्णन् वदन् व्रजन्।।

ईहितानीहितैर्मुक्तो मुक्त एव महाशयः।।१२।।

(पश्यन् शृण्वन् स्पृशन् जिघ्रन् अश्नन् गृह्णन् वदन् व्रजन्। ईहित अनीहितैः मुक्तः मुक्तः एव महाशयः।।)

अर्थ : देखते, सुनते, छूते, सूँघते और खाते हुए, ग्रहण करते हुए, बोलते और चलते हुए इन सभी कार्यों को इच्छा या अनिच्छा से भी करते हुए ऐसा उदार-हृदय मुक्त पुरुष सदैव मुक्त ही है।

--

श्रीमद्भगवद्गीता अध्याय ५ के निम्न श्लोकों के संदर्भ में भी इसे देखा जा सकता है :

अर्जुन उवाच --

संन्यासं कर्मणां कृष्ण पुनर्योगं च शंससि।।

यच्छ्रेयः एतयोरेकं तन्मे ब्रूहि सुनिश्चितम्।।१।।

श्रीभगवानुवाच --

संन्यासः कर्मयोगश्च निःश्रेसकरावुभौ।।

तयोस्तु कर्मसंन्यासात्कर्मयोगो विशिष्यते।।२।।

कस्मात्, इति आह --

ज्ञेयः स नित्यसंन्यासी यो न द्वेष्टि न काङ्क्षति।।

निर्द्वन्द्वो हि महाबाहो सुखं बन्धात्प्रमुच्यते।।३।।

साङ्ख्ययोगौ पृथग्बालाः प्रवदन्ति न पण्डिताः।।

एकमप्यास्थितः सम्यगुभयोर्विन्दते फलम्।।४।।

यत्साङ्ख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते।।

एकं साङ्ख्यं च योगं च यः पश्यति स पश्यति।।५।।

संन्यासस्तु महाबाहो दुःखमाप्तुमयोगतः।।

योगयुक्तो मुनिर्ब्रह्म चिरेणाधिगच्छति।।६।।

योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः।।

सर्वभूतात्ममभूतात्मा कुर्वन्नपि न लिप्यते।।७।।

नैव किञ्चित्करोमीति युक्तो मन्येत तत्ववित्।।

पश्यञ्शृण्वन्स्पृशञ्जिघ्रन्नश्नन्गच्छन्सवपञ्श्वसन् ।।८।।

प्रलपन्विसृजन्गृह्णन्नुन्मिषन्निमिषन्नपि

इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन्।।९।।

--

ಅಷ್ಟಾವಕ್ರ ಗೀತಾ

ಅಧ್ಯಾಯ ೧೭

ಶ್ಲೋಕ ೧೨

ಪಶ್ಯನ್ ಶೃಟ್ವನ್ ಸ್ಪೂಶನ್ ಜಿಘೃ-

ನ್ನಶ್ನನ್ ಗೃಹ್ಣನ್ ವದನ್ ವೃಜನ್||

ಈಹಿತಾನೀಹಿತೇರ್ಮುಕ್ತೋ

ಮೀಕ್ತ ಏವ ಮಹಾಶಯಃ||೧೨||

--

Ashtavakra Gita

Chapter 17

Stanza 12

Seeing, hearing, touching, smelling, eating, taking, speaking and walking, the great-souled one, free from all efforts and non-efforts, is verily emancipated.

(Shrimadbhagvadgita Chapter 5, Verses 1-9)

***



 

No comments:

Post a Comment