Friday, 22 November 2024

SanskRtA / संस्कृता

संस्कृताप्राकृतालौकिकाः

--

स्वयंभू ब्रह्मा बभूव प्रभोः हरेः विष्णोः।

सृष्टा सैव योऽसृजत सृष्टिं चैव सरस्वतीम्।।१।।

सरस्वती सा विद्या, प्रकृतिः सैव या माया।

तया या सृष्टा वाणी सा बभूव या गिरा।।२।।

अपरोऽपि बभूव यो ब्रह्मणा सैव अन्गिरा

अङ्गिरा वा अङ्गिरसो रसवद्व्याप्त ब्रह्मणि।।३।।

तेन हि कल्पिता भाषा या वदन्ति पशवः सर्वे

सा वाग्च वाणी सा वैखरी अवगम्यते / निगद्यते।।४।।

संस्कृता हि सा वाणी या परिष्कृताऽपि तेनैव

संस्कृता ततो परावाणी प्राकृता इतरा बभूव।।५।।

संस्कृता प्राकृता चैव भाषे द्वे ये प्रकल्पिते।

अनयोर्द्वयोर्हि एकत्वं यतो द्वे परिकीर्तिते।।६।।

ब्राह्मी लिपिः सर्वत्र लक्षणरूपा सरस्वती

गिरा तु या ग्रीका बभूव अङ्गिरा या संस्कृता।।७।।

ऋग्वेदे प्रथममण्डले च शताधिके-षष्ठितृतीये

वर्णितं यत्रस्फुटं यदर्वणाः कुतः क्व बभूवुः।।८।।

भारद्वाजविनायकस्वामिना अद्य विरचितमिति

संस्कृताप्राकृतालौकिका भाषाष्टकं सम्पूर्णम्।।

श्री भगवते प्रीयताम्।।

फलश्रुति:

एताः त्रिभाषाः हि सर्वत्र लोकेऽस्मिन् प्रवर्तिता

अन्याः हि बहुलाः तदा जायन्ते प्रविलीयन्ते।।

***







No comments:

Post a Comment