Saturday, 27 September 2025

Name and Form

नाम-रूपात्मकमिदं

नाम-रूपात्मकमिदं यच्च श्रूयते दृश्यते वा सर्वम्।

जागृतिस्वप्नसुषुप्त्यां वृत्तिरूपात्मके जगति।।१

नाम श्रूयते ध्वनिभिः रूपं दृश्यते आकृतिभिः।

द्वयोर्संघातं प्राणश्चेतनाद्वयी गमयति अत्र तत्र।।२।।

रंध्रमये अस्मिञ्जगति विचरत्यसौ कालस्थाने।

देहे नाडीभिर्मनसि वृत्तिभिः आत्मभिश्च हृदये।।३।।

अतो हि लोके लोके मनसि नामरूपौ वर्तेते।

यथा हि सर्पिणी संचरति विचरति बिलसहस्रे।।४।।

एवं नाड्यां नाड्यां सहस्र्यां सञ्चरति यत्र तत्र

तथा हि जीवो अनुसरति संचरति जगति रंध्रे।।५।।

एको हि रंध्रं व्याप्तं अपि सहस्रेषु रंध्रेषु तेषु।

ब्रह्मरंध्रमुच्यते इति नाम्ना ज्ञायते कथ्यतेऽपि।।६।।

व्यष्टिः पिण्डे पिण्डं ब्रह्माण्डे, ब्रह्माण्डं ब्रह्मणि।

जन्मनि जन्मनि गच्छति विरति सञ्चरति।।७।।

क्लेशं भजत्यनुभूयते अनुभवत्यपि सर्वत्र।

वा अपि ब्राह्ममुहूर्ते लब्ध्वा व्यावृत्तं ब्रह्मरंध्रम्।।८।।

प्रविशत्यनवधाने तत्र यदा सुषुप्तिमपि कदापि। 

अथ वा अवधानं भजत्वा यदा ब्रह्मरंध्रे तदापि।।९।।

न पुनरावर्तति अस्मिञ्जगति मनसि वा पिण्डे।

प्रलीयते तस्मिन् ब्रह्मणि एवं तथा ब्रह्मभूत्वा।।१०।।

***





No comments:

Post a Comment