श्रीमद्भगवद्गीता
4/1, 4/2, 4/3, 4/5, 7/10, 7/19, 10/2, 10/ 14,
अध्याय ४ -
श्रीभगवानुवाच -
इमं विवस्वते योगं प्रोक्तवानहमव्ययम्।
विवस्वान्मनवे प्राह मनुरिक्ष्वाकवेऽब्रवीत्।।१।।
एवं परम्पराप्राप्तमिमं राजर्षयो विदुः।
स कालेनेह महता योगो नष्टः परन्तप।।२।।
स एवायं मया तेऽद्य योगः प्रोक्तः पुरातनम्।
भक्तो मेऽसि सखा चेति रहस्यमेतदनुत्तमम्।।३।।
अर्जुन उवाच -
अपरं भवतो जन्म परं जन्म विवस्वतः।
कथं चेतद्विजानीयां त्वमादौ प्रोक्तवानिति।।४।।
श्रीभगवानुवाच -
बहूनि मे व्यतीतानि जन्मानि तव चार्जुन।
तान्यहं वेद सर्वाणि न त्वं वेत्थ परन्तप।।५।।
अध्याय ७ -
श्रीभगवानुवाच -
बीजं मां सर्वभूतानां विद्धि पार्थ सनातनम्।
बुद्धिर्बुद्धिमतामस्मि तेजस्तेजस्विनामहम्।।१०।।
बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते।
वासुदेवः सर्वमिदं स महात्मा सुदुर्लभः।।१९।।
अध्याय १० -
श्रीभगवानुवाच -
न मे विदुः सुरगणाः प्रभवं च महर्षयः।
अहं आदिर्हि देवानां महर्षीणां च सर्वशः।।२।।
अर्जुन उवाच -
सर्वमेतदृतं मन्ये यन्मां वदसि केशव।
न हि ते भगवन् व्यक्तिं विदुर्देवा न दानवाः।।१४।।
स्वयमेवात्मनाऽत्मानं वेत्थ त्वं पुरुषोत्तम।
भूतभावन भूतेश देवदेव जगत्पते।।१५।।
श्रीभगवानुवाच -
हन्त ते कथयिष्यामि दिव्या ह्यात्मविभूतयः।
प्राधान्यतः कुरुश्रेष्ठ न अन्तो विस्तरस्य मे।।१९।।
अहमात्मा गुडाकेश सर्वभूताशयस्थितः।
अहमादिश्च मध्यं च भूतानामन्तमेव च।।२०।।
आदित्यानामहं विष्णुर्ज्योतिषां रविरंशुमान्।
मरीचिर्मरुतामस्मि नक्षत्राणामहं शशी।।२१।।
वेदानां सामवेदोऽस्मि देवानामस्मि वासवः।
इन्द्रियाणां मनश्चास्मि भूतानां अस्मि-चेतना।।२२।।
अध्याय ११ -
नाहं वेदैर्न तपसा न दानें न चेज्यया।
शक्यं एवंविधो द्रष्टुं दृष्टवानसि मां यथा।।५३।।
कठोपनिषद्
1/
बहूनामेमि बहूनामेमि मध्यमः।
This is how I interpret the essence of Gita and the Truth of :
The First Person,
The Second Person, and,
The Third Person.
The self-conscious self is the
अस्मि-चेतना
Referred to as in the verse 22, Chapter 10 above.
This is the esential First Person while the Sense of "I am" as I'm s this or that, or not this; not that ... is the Second Person.
The "self" can never address to itself either as "I", nor as "You".
Again, The "Self" couldn't be pointed out as "I", "You" or "That" as is addressed as an object. "Self" is inevitably either the First Person or the Second Person, who are referred to or addressed as "I" or "You" invariably.
The reference to
the mantra in the Kathopanishad
Gives the same sense.
बहूनामेमि प्रथमो बहूनामेमि मध्यमो ...
नचिकेता / nachiketA asks to वाजश्रवा / VAjashravA.
In many, one a conscious being is always and inevitably referred to either as "I" or as 'You" only and could never as "That".
"That" - तत् is the ब्रह्मन् / Brahman,
As is referred to in the महावाक्य :
अहं ब्रह्मास्मि / I AM THAT.
***
No comments:
Post a Comment